सकृच्छवणमात्रेण ब्रह्मज्ञानं यतो भवेत् |
ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये |१ |
असङ्गोऽहमसङ्गोऽहमसङ्गोऽहं पुनः पुनः |
सच्चिदानन्दरूपोऽहमहमेवाहमव्ययः |२ |
नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः |
भूमानन्दस्वरूपोऽहमहमेवाहमव्ययः |३ |
नित्योऽहं निरवद्योऽहं निराकारोऽहमुच्यते |
परमानन्दरूपोऽहमहमेवाहमव्ययः |४ |
शुद्धचैतन्यरूपोऽहमात्मरामोहमेव च |
अखण्डानन्दरूपोऽहमहमेवाहमव्ययः |५ |
प्रत्यक्कैतन्यरूपोऽहं शानतोऽहं प्रकृतेः परः |
शाश्वतानन्दरूपोऽहमहमेवाहमव्ययः |६ |
तत्त्वातीतः परात्माहं मध्यातीतः परः शिवः |
मायातीतः परंज्योतिरहमेवाहमव्ययः |७ |
नानारूपव्यतीतोऽहं चिदाकारोऽहमच्युतः |
सुखरूपस्वरूपोऽहमहमेवाहमव्ययः |८ |
मायातत्कार्यदेहादि मम नास्त्येव सर्वदा |
स्वप्रकाशैकरूपोऽहमहमेवाहमव्ययः |९ |
गुणत्रयव्यतीतोऽहं ब्रह्मादीनां च साक्ष्यहम |
अनन्तानन्तरूपोऽहमहमेवाहमव्ययः |१० |
अन्तर्यामिस्वरूपोऽहं कूटस्थः सर्वगोऽस्म्यहम | परमात्मस्वरूपोऽहमहमेवाहमव्ययः |११ |
निष्कलोऽहं निष्क्रियोऽहं सर्वात्माद्यः सनातनः |
अपरोक्षस्वरूपोऽहमहमेवाहमव्ययः |१२ |
द्वन्द्वादिसाक्षिरूपोऽहमचलोऽहं सनातनः |
सर्वसाक्षिस्वरूपोऽहमहमेवाहमव्ययः |१३ |
प्रज्ञानधन एवाहं विज्ञानधन एव च |
अकर्ताहमभोक्ताहमहमेवाहमव्ययः |१४ |
निराधारस्वरूपोऽहं सर्वाधारोऽहमेव च |
आप्तकामस्वरूपोऽहमहमेवाहमव्ययः |१५ |
तापत्रयविनिर्मुक्तो देहत्रयविलक्षणः |
अवस्थात्रयसाक्ष्यस्मि चाहमेवाहमव्ययः |१६ |
दृग्दृश्यौ द्वौ पदार्थौ स्तः परस्परविलक्ष्णौ |
दृग्ब्रह्मा दृश्यं मायेति सर्ववेदान्तडिण्डिमः |१७ |
अहं साक्षीति यो विद्याद्विविच्यैवं पुनः पुनः |
स एव मुक्तः सो विद्वानिति वेदान्तडिण्डिमः |१८ |
घटकुड्यादिकं सर्वं मृक्तिकामात्रमेव च |
तद्वद्वह्म जगत्सर्वमिति वेदान्तडिण्डिमः |१९ |
ब्रह्मा सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः |
अनेन वेद्यं सच्छास्त्रमिति वेदान्तडिण्डिमः |२० |
अन्तर्ज्योतिर्बहिर्ज्योतिः प्रत्यग्ज्योतिः परात्परः |
ज्योतिर्ज्योतिः स्वयंज्योतिरात्मज्योतिः शिवोऽस्म्यहम |२१ |
इति श्रीशंङ्कराचार्यविरचितं ब्रह्मज्ञानावलीमाला सम्पूर्णम ||
॥ ॐ तत्सत् ॥
------------------------------------------------------------------------------------------------------------------------
-------------------------------------------------------------------------------------------------------------------------