Showing posts with label Astrology-अङ्गारक कवचं. Show all posts
Showing posts with label Astrology-अङ्गारक कवचं. Show all posts

Jan 22, 2019

श्री मार्कण्डेयपुराणे अङ्गारक कवचं


गणपति ध्यानं 


शुक्लाम्बरधरं विष्णुं शशिवर्नाम चतुर्भुजं
प्रसन्नवदनं ध्यायेत सर्वा विघ्नोपशंताये !  

अस्य श्री अङ्गारक कवचस्य, 
कश्यप ऋषीः, 
अनुष्टुप् चन्दः, 
अङ्गारको देवता, 
भौम प्रीत्यर्थे जपे विनियोगः ॥

ध्यानम्
रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् ।
धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्तः ॥

अथ अङ्गारक कवचम्
अङ्गारकः शिरो रक्षेत् मुखं वै धरणीसुतः ।
श्रवौ रक्तम्बरः पातु नेत्रे मे रक्तलोचनः ॥ 1 ॥

नासां शक्तिधरः पातु मुखं मे रक्तलोचनः ।
भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ॥2 ॥

वक्षः पातु वराङ्गश्च हृदयं पातु रोहितः ।
कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥ 3 ॥

जानुजङ्घे कुजः पातु पादौ भक्तप्रियः सदा ।
सर्वाण्यन्यानि चाङ्गानि रक्षेन्मे मेषवाहनः ॥ 4 ॥

फलश्रुतिः
य इदं कवचं दिव्यं सर्वशत्रुनिवारणम् ।
भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ॥

सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् ।
भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम् ॥

रोगबन्धविमोक्षं च सत्यमेतन्न संशयः ॥

॥ इति श्री मार्कण्डेयपुराणे अङ्गारक कवचं सम्पूर्णम् ॥