नारदभक्तिसूत्राणि
Thousands of years before Christ, Ved Vyas and his desciple Jaimini were working on Uttara Mimamsa and Purva Mimamsa, (One of the six shastras from Vedanga, which deals with problems of action and thought, otherwise modern people call it Philosophy) though he believed that devotion should be पूजादिष्वनुराग इति पाराशर्यः | meaning doing regular puja (Prayer) was the ultimate/ideal way of devotion or ideal way of expressing devotion.
Ved Vyas separated Vedas in four parts, gave outlines of Upa Nishaads,18 Puranas, Brahma sutras and Maha Bharata, then he was not able :-) to consolidate the knowledge to acquire true devotion in words, he asked the wandering Deva Rishi Narada to help him, Deva Rishi Narada wanders around the 14 worlds, 7 upper worlds (Earth is the Lowest in the upper worlds or 7th from top) and 7 lower worlds, gathering information, aspiring and guiding true spiritual aspirants and spreading true knowledge of devotion, and also creating trouble to the trouble makers. :-)
So Deva Rishi Narada delivered all that knowledge in 84 Sutras, saying this is my opinion only, but each one is a milestone in the path of a devotee till he gets to a point where there is no return. (Free from the cycle of births and deaths).
Atma (Soul) has no gender and Param-Atma also has no gender, now read and practise. :-)
शुक्लाम्बरधरं विष्णुं शशिवर्नाम चतुर्भुजं
प्रथमोऽध्यायः - परभक्तिस्वरूपम् । सूत्र १-२४ (Design of True devotion).
द्वितीयोऽध्यायः - परभक्तिमहत्त्वम् । सूत्र २५-३३ (Importance of True devotion).
तृतीयोऽध्यायः - भक्तिसाधनानि । सूत्र ३४-५० (Practising True devotion).
चतुर्थोऽध्यायः - प्रेमनिर्वचनम् । सूत्र ५१-६६ ( True devotion as love towards God).
पञ्चमोऽध्यायः - मुख्यभक्तिमहिमा । सूत्र ६७-८४ (Main Mahima of True devotion). प्रथमोऽध्यायः परभक्तिस्वरूपम् अथातो भक्तिं व्याख्यास्यामः । १ - १.०१ Now I explain........
सा त्वस्मिन् परप्रेमरूपा । २ - १.०२
अमृतस्वरूपा च । ३ - १.०३
यल्लब्ध्वा पुमान् सिद्धो भवति अमृतो भवति तृप्तो भवति । ४ - १.०४
यत्प्राप्य न किञ्चिद् वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति । ५ - १.०५
यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति । ६ - १.०६
सा न कामयमाना निरोधरूपत्वात् । ७ - १.०७
निरोधस्तु लोकवेदव्यापारन्यासः । ८ - १.०८
तस्मिन्ननन्यता तद्विरोधिषूदासीनता च । ९ - १.०९
अन्याश्रयाणां त्यागोनन्यता । १० - १.१०
लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता । ११ - १.११
भवतु निश्चयदार्ढ्यादूर्ध्वं शास्त्ररक्षणम् । १२ - १.१२
अन्यथा पातित्यशङ्कया । १३ - १.१३
लोकोऽपि तावदेव भोजनादि व्यापारस्त्वाशरीरधारणावधि । १४ - १.१४
तल्लक्षणानि वाच्यन्ते नानामतभेदात् । १५ - १.१५
पूजादिष्वनुराग इति पाराशर्यः । १६ - १.१६
कथादिष्विति गर्गः । १७ - १.१७
आत्मरत्यविरोधेनेति शाण्डिल्यः । १८ - १.१८
नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति । १९ - १.१९
अस्त्येवमेवम् । २० - १.२०
यथा व्रजगोपिकानाम् । २१ - १.२१
तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः । २२ - १.२२
तद्विहीनं जाराणामिव । २३ - १.२३
नास्त्येव तस्मिन् तत्सुखसुखित्वम् । २४ - १.२४
द्वितीयोऽध्यायः परभक्तिमहत्त्वम्
सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा । २५ - २.०१
फलरूपत्त्वात् । २६ - २.०२
ईश्वरस्याप्यभिमानद्वेषित्वात् दैन्यप्रियत्वात् च । २७ - २.०३
तस्याः ज्ञानमेव साधनमित्येके । २८ - २.०४
अन्योन्याश्रयत्वमित्यन्ये । २९ - २.०५
स्वयं फलरूपतेति ब्रह्मकुमारः । ३० - २.०६
राजगृहभोजनादिषु तथैव दृष्टत्वात् । ३१ - २.०७
न तेन राजा परितोषः क्षुच्छान्तिर्वा । ३२ - २.०८
तस्मात् सैव ग्राह्या मुमुक्षुभिः । ३३ - २.०९
तृतीयोऽध्यायः भक्तिसाधनानि
तस्याः साधनानि गायन्त्याचार्याः । ३४ - ३.०१
तत्तु विषयत्यागात् सङ्गत्यागात् च । ३५ - ३.०२
अव्यावृत्तभजनात् । ३६ - ३.०३
लोकेऽपि भगवद्गुणश्रवणकीर्तनात् । ३७ - ३.०४
मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद् वा । ३८ - ३.०५
महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च । ३९ - ३.०६
लभ्यतेऽपि तत्कृपयैव । ४० - ३.०७
तस्मिंस्तज्जने भेदाभावात् । ४१ - ३.०८
तदेव साध्यतां तदेव साध्यताम् । ४२ - ३.०९
दुस्सङ्गः सर्वथैव त्याज्यः । ४३ - ३.१०
कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशकारणत्वात् । ४४ - ३.११
तरङ्गायिता अपीमे सङ्गात् समुद्रायन्ते । ४५ - ३.१२
कस्तरति कस्तरति मायाम् यः सङ्गं त्यजति यो महानुभावं सेवते निर्ममो भवति । ४६ - ३.१३
यो विविक्तस्थानं सेवते यो लोकबन्धमुन्मूलयति निस्त्रैगुण्यो भवति योगक्षेमं त्यजति । ४७ - ३.१४
यः कर्मफलं त्यजति कर्माणि संन्यस्स्यति ततो निर्द्वन्द्वो भवति । ४८ - ३.१५
यो वेदानपि संन्यस्यति केवलमविच्छिन्नानुरागं लभते । ४९ - ३.१६
स तरति स तरति स लोकांस्तारयति । ५० - ३.१७
चतुर्थोऽध्यायः प्रेमनिर्वचनम्
अनिर्वचनीयं प्रेमस्वरूपम् । ५१ - ४.०१
मूकास्वादनवत् । ५२ - ४.०२
प्रकाशते क्वापि पात्रे । ५३ - ४.०३
गुणरहितं कामनारहितं प्रतिक्षणवर्धमानं अविच्छिन्नं सूक्ष्मतरं अनुभवरूपम् । ५४ - ४.०४
तत्प्राप्य तदेवावलोकति तदेव शृणोति तदेव भाषयति तदेव चिन्तयति । ५५ - ४.०५
गौणी त्रिधा गुणभेदाद् आर्तादिभेदाद् वा । ५६ - ४.०६
उत्तरस्मादुत्तरस्मात् पूर्व पूर्वा श्रेयाय भवति । ५७ - ४.०७
अन्य मात् सौलभं भक्तौ । ५८ - ४.०८
प्रमाणान्तरस्यानपेक्षत्वात् स्वयं प्रमाणत्वात् । ५९ - ४.०९
शान्तिरूपात् परमानन्दरूपाच्च । ६० - ४.१०
लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात् । ६१ - ४.११
न तत्सिद्धौ लोकव्यवहारो हेयः किन्तु फलत्यागः तत्साधनं च । ६२ - ४.१२
स्त्रीधननास्तिकचरित्रं न श्रवणीयम् । ६३ - ४.१३
अभिमानदम्भादिकं त्याज्यम् । ६४ - ४.१४
तदर्पिताखिलाचारः सन् कामक्रोधाभिमानादिकं तस्मिन्नेव करणीयम् । ६५ - ४.१५
त्रिरूपभङ्गपूर्वकम् नित्यदास्यनित्यकान्ताभजनात्मकं प्रेम कार्यं प्रेमैव कार्यम् । ६६ - ४.१६
पञ्चमोऽध्यायः मुख्यभक्तिमहिमा
भक्ता एकान्तिनो मुख्याः । ६७ - ५.०१
कण्ठावरोधरोमञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च । ६८ - ५.०२
तीर्थीकुर्वन्ति तीर्थानि सुकर्मी कुर्वन्ति कर्माणि सच्छास्त्रीकुर्वन्ति शास्त्राणि । ६९ - ५.०३
तन्मयाः । ७० - ५.०४
मोदन्ते पितरो नृत्यन्ति देवताः सनाथा चेयं भूर्भवति । ७१ - ५.०५
नास्ति तेषु जातिविद्यारूपकुलधनक्रियादि भेदः । ७२ - ५.०६
यतस्तदीयाः । ७३ - ५.०७
वादो नावलम्ब्यः । ७४ - ५.०८
बाहुल्यावकाशत्वाद् अनियतत्त्वाच्च । ७५ - ५.०९
भक्तिशास्त्राणि मननीयानि तदुद्बोधकर्माणि करणीयानि । ७६ - ५.१९
सुखदुःखेच्छालाभादित्यक्ते काले प्रतीक्ष्यमाणे क्षणार्धमपि व्यर्थं न नेयम् । ७७ - ५.११
अहिंसासत्यशौचदयास्तिक्यादिचरित्राणि परिपालनीयानि । ७८ - ५.१२
सर्वदा सर्वभावेन निश्चिन्तैर्भगवानेव भजनीयः । ७९ - ५.१३
सङ्कीर्त्यमानः शीघ्रमेवाविर्भवत्यनुभावयति भक्तान् । ८० - ५.१४
त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी । ८१ - ५.१५
गुणमाहात्म्यासक्ति-रूपासक्ति-पूजासक्ति-स्मरणासक्ति-दास्यासक्ति-सख्यासक्ति-
वात्सल्यसक्ति-कान्तासक्ति-आत्मनिवेदनासक्ति-तन्मयतासक्ति-परमविरहासक्ति-रूपा
एकधा अपि एकादशधा भवति । ८२ - ५.१६
इत्येवं वदन्ति जनजल्पनिर्भयाः एकमताः
कुमार-व्यास-शुक-शाण्डिल्य-गर्ग-विष्णु-
कौण्डिण्य-शेषोद्धवारुणि-बलि-हनुमद्-विभीषणादयो भक्त्याचार्याः । ८३ - ५.१७
य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रद्धते स भक्तिमान्
भवति सः प्रेष्टं लभते सः प्रेष्टं लभते । ८४ - ५.१८
आचमनः
ॐ अच्युताया नमः / स्वाहा !
ॐ अनन्ताय नमः / स्वाहा !
ॐ गोविन्दाय नमः / स्वाहा !
गणपति ध्यानं
प्रसन्नवदनं ध्यायेत सर्वा विघ्नोपशंताये !
नारदभक्तिसूत्राणि
The 84 Sutras are divided in to five chapters,