Jun 13, 2020

अथर्व षीर्षम्


गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्) 

शान्ति पाठः  

ॐ भद्रं कर्णे'भिः शृणुयाम' देवाः | 
भद्रं प'श्येमाक्षभिर्यज'त्राः | 
स्थिरैरङ्गै''स्तुष्ठुवाग्^ं स'स्तनूभिः' | 
व्यशे'म देवहि'तं यदायुः' | 
स्वस्ति न इन्द्रो' वृद्धश्र'वाः | 
स्वस्ति नः' पूषा विश्ववे'दाः | 
स्वस्ति नस्तार्क्ष्यो अरि'ष्टनेमिः | 
स्वस्ति नो बृहस्पति'र्दधातु ‖

ॐ शान्तिः शान्तिः शान्तिः' ‖


स्वरूप  तत्वम 

ॐ नम'स्ते गणप'तये | 
त्वमेव प्रत्यक्षं तत्त्व'मसि | 
त्वमेव केवलं कर्ता'ऽसि | 
त्वमेव केवलं धर्ता'ऽसि | 
त्वमेव केवलं हर्ता'ऽसि | 
त्वमेव सर्वं खल्विदं' ब्रह्मासि | 
त्वं साक्षादात्मा'ऽसि नित्यम् ‖ 1 ‖

ऋ'तं वच्मि | स'त्यं वच्मि ‖ 2 ‖ 


अव त्वं माम् | 
अव' वक्तारम्'' | 
अव' श्रोतारम्'' | 
अव' दातारम्'' | 
अव' धातारम्'' | 
अवानूचानम'व शिष्यम् | 
अव' पश्चात्ता''त् | 
अव' पुरस्ता''त् | 
अवोत्तरात्ता''त् | 
अव' दक्षिणात्ता''त् | 
अव' चोर्ध्वात्ता''त् | 
अवाधरात्ता''त् | 
सर्वतो मां पाहि पाहि' समन्तात् ‖ 3 ‖

त्वं वाङ्मय'स्त्वं चिन्मयः | 

त्वमानन्दमय'स्त्वं ब्रह्ममयः | 

त्वं सच्चिदानन्दाऽद्वि'तीयोऽसि |

त्वं प्रत्यक्षं ब्रह्मा'सि | 
त्वं ज्ञानमयो विज्ञान'मयोऽसि ‖ 4 ‖

सर्वं जगदिदं त्व'त्तो जायते | 
सर्वं जगदिदं त्व'त्तस्तिष्ठति | 
सर्वं जगदिदं त्वयि लय'मेष्यति | 
सर्वं जगदिदं त्वयि' प्रत्येति | 
त्वं भूमिरापोऽनलोऽनि'लो नभः | 
त्वं चत्वारि वा''क्पदानि ‖ 5 ‖

त्वं गुणत्र'यातीतः | 
त्वं अवस्थात्र'यातीतः | 
त्वं देहत्र'यातीतः | 
त्वं कालत्र'यातीतः | 
त्वं मूलाधारस्थितो'ऽसि नित्यम् | 
त्वं शक्तित्र'यात्मकः |
 त्वां योगिनो ध्याय'न्ति नित्यम् |

त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम् ‖ 6 ‖

गणेश
मंत्र 


गणादिं'' पूर्व'मुच्चार्य वर्णादीं'' स्तदनन्तरम् | 
अनुस्वारः प'रतरः | अर्धे''न्दुलसितम् | तारे'ण ऋद्धम् | 
ऎतत्तव मनु'स्वरूपम् | 
गकारः पू''र्वरूपम् | अकारो मध्य'मरूपम् | अनुस्वारश्चा''न्त्यरूपम् | बिन्दुरुत्त'ररूपम् | नादः' सन्धानम् | सगंहि'ता सन्धिः | 

सैषा गणे'शविद्या | 

गण'क ऋषिः | निचृद्गाय'त्रीच्छन्दः | 
श्री महागणपति'र्देवता | ॐ गं गणप'तये नमः ‖ 7 ‖

एकदन्ताय' विद्महे' वक्रतुण्डाय' धीमहि |
तन्नो' दन्तिः प्रचोदया''त् ‖ 8 ‖

एकदन्तं च'तुर्हस्तं पाशमं'कुशधारि'णम् | 
रदं' च वर'दं हस्तैर्बिभ्राणं' मूषकध्व'जम् | 
रक्तं' लम्बोद'रं शूर्पकर्णकं' रक्तवास'सम् | 
रक्त'गन्धानु'लिप्ताङ्गं रक्तपु'ष्पैः सुपूजि'तम् | 
भक्ता'नुकम्पि'नं देवं जगत्का'रणमच्यु'तम् | 
आवि'र्भूतं च' सृष्ट्यादौ प्रकृते''ः पुरुषात्प'रम् | 
एवं' ध्यायति' यो नित्यं स योगी' योगिनां व'रः ‖ 9 ‖

गणेश अष्ट नाम 

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये 
नमस्तेऽस्तु लम्बोदरायैकदन्ताय 
विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये नमः ‖ 10 ‖

फल श्रुति 

एतदथर्वशीर्षं योऽधीते | स ब्रह्मभूया'य कल्पते |
स सर्वविघ्नै''र्न बाध्यते | स सर्वतः सुख'मेधते | 

स पञ्चमहापापा''त् प्रमुच्यते | 

सायम'धीयानो दिवसकृतं पापं' नाशयति | 
प्रातर'धीयानो रात्रिकृतं पापं' नाशयति | 
सायं प्रातः प्र'युञ्जानो पापोऽपा'पो भवति | 

धर्मार्थकाममोक्षं' च विन्दति | 
इदमथर्वशीर्षमशिष्याय' न देयम् | 
यो यदि मो'हाद् दास्यति स पापी'यान् भवति | 
सहस्रावर्तनाद्यं यं काम'मधीते | तं तमने'न साधयेत् ‖ 11 ‖

अनेन गणपतिम'भिषिञ्चति | 
स वा'ग्मी भवति | चतुर्थ्यामन'श्नन् जपति स विद्या'वान् भवति |

इत्यथर्व'णवाक्यम् | 

ब्रह्माद्याचर'णं विद्यान्न बिभेति कदा'चनेति ‖ 12 ‖

यो दूर्वाङ्कु'रैर्यजति स वैश्रवणोप'मो भवति | 
यो ला'जैर्यजति स यशो'वान् भवति | स मेधा'वान् भवति | 
यो मोदकसहस्रे'ण यजति स वाञ्छितफलम'वाप्नोति | 
यः साज्य समि'द्भिर्यजति स सर्वं लभते स स'र्वं लभते ‖ 13 ‖

अष्टौ ब्राह्मणान् सम्यग् ग्रा'हयित्वा सूर्यवर्च'स्वी भवति | 

सूर्यग्रहे म'हानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धम'न्त्रो भवति | 
महाविघ्ना''त् प्रमुच्यते | 
महादोषा''त् प्रमुच्यते | 
महापापा''त् प्रमुच्यते | 
महाप्रत्यवाया''त् प्रमुच्यते | 

स सर्व'विद्भवति स सर्व'विद्भवति | 

य ए'वं वेद | 

इत्यु'पनिष'त् ‖ 14 ‖

शान्ति पाठः  

ॐ भद्रं कर्णे'भिः शृणुयाम' देवाः | 
भद्रं प'श्येमाक्षभिर्यज'त्राः |
स्थिरैरङ्गै''स्तुष्ठुवाग्^ं स'स्तनूभिः' | 
व्यशे'म देवहि'तं यदायुः' | 
स्वस्ति न इन्द्रो' वृद्धश्र'वाः | 
स्वस्ति नः' पूषा विश्ववे'दाः |
स्वस्ति नस्तार्क्ष्यो अरि'ष्टनेमिः | 
स्वस्ति नो बृहस्पति'र्दधातु ‖

ॐ शान्तिः शान्तिः शान्तिः' ‖

No comments: