श्री कीलक स्तोत्र
अस्य श्री कीलक स्तोत्र महा मन्त्रस्य | शिव ऋषिः |
अनुष्टुप् छन्दः | महासरस्वती देवता |
मन्त्रोदित देव्यो बीजं | नवार्णो मन्त्रशक्ति|
श्री सप्त शती मन्त्र स्तत्वं स्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वएन जपे विनियोगः |
ॐ नमश्चण्डिकायै
मार्कण्डेय उवाच
ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे |
श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे ‖1‖
सर्वमेत द्विजानीयान्मन्त्राणापि कीलकं |
सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः ‖2‖
सिद्ध्यन्तुच्चाटनादीनि कर्माणि सकलान्यपि |
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ‖3‖
न मन्त्रो नौषधं तस्य न किञ्चि दपि विध्यते |
विना जाप्यम् न सिद्ध्येत्तु सर्व मुच्चाटनादिकम् ‖4‖
समग्राण्यपि सेत्स्यन्ति लोकशज्ञ्का मिमां हरः |
कृत्वा निमन्त्रयामास सर्व मेव मिदं शुभम् ‖5‖
स्तोत्रंवै चण्डिकायास्तु तच्च गुह्यं चकार सः |
समाप्नोति सपुण्येन तां यथावन्निमन्त्रणां ‖6‖
सोपिऽक्षेम मवाप्नोति सर्व मेव न संशयः |
कृष्णायां वा चतुर्दश्यां अष्टम्यां वा समाहितः‖6‖
ददाति प्रतिगृह्णाति नान्य थैषा प्रसीदति |
इत्थं रूपेण कीलेन महादेवेन कीलितम्| ‖8‖
यो निष्कीलां विधायैनां चण्डीं जपति नित्य शः |
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् ‖9‖
न चैवा पाटवं तस्य भयं क्वापि न जायते |
नाप मृत्यु वशं याति मृतेच मोक्षमाप्नुयात्‖10‖
ज्ञात्वाप्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति |
ततो ज्ञात्वैव सम्पूर्नं इदं प्रारभ्यते बुधैः ‖11‖
सौभाग्यादिच यत्किञ्चिद् दृश्यते ललनाजने |
तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभं ‖12‖
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः|
भवत्येव समग्रापि ततः प्रारभ्यमेवतत् ‖13‖
ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेवचः |
शत्रुहानिः परो मोक्षः स्तूयते सान किं जनै ‖14‖
चण्दिकां हृदयेनापि यः स्मरेत् सततं नरः |
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ‖15‖
अग्रतोऽमुं महादेव कृतं कीलकवारणम् |
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः ‖16‖
‖ इति श्री भगवती कीलक स्तोत्रं ‖
No comments:
Post a Comment